Chapter 12 Shloka 11
अथैतदप्यशक्तोऽसि कर्तुं(म्) मद्योगमाश्रितः ।
athai-tadapya-śakto'si kartuṁ(m) madyoga-māśritaḥ ।
सर्वकर्मफलत्यागं(म्) ततः(क्) कुरु यतात्मवान् ॥
sarva-karma-phala-tyāgaṁ(m) tataḥ(k) kuru yatātmavān ॥
Chapter 12 Shloka 12
श्रेयो हि ज्ञानमभ्यासाज्(त्) ज्ञानाद्ध्यानं(वँ) विशिष्यते ।
śreyo hi jñānamabhyāsāj(t) jñānāddhyānaṁ(v̐) viśiṣyate ।
ध्यानात्कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम् ॥
dhyānāt-karma-phala-tyāgaḥ tyāgācchānti-ranantaram ॥
Chapter 12 Shloka 13
अद्वेष्टा सर्वभूतानां(म्) मैत्रः(क्) करुण एव च ।
adveṣṭā sarvabhūtānāṁ(m) maitraḥ(k) karuṇa eva ca ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ॥
Chapter 12 Shloka 14
सन्तुष्टः(स्) सततं(य्ँ) योगी यतात्मा दृढनिश्चयः ।
santuṣṭaḥ(s) satataṁ(y̐) yogī yatātmā dṛḍhaniścayaḥ ।
मय्यर्पितमनोबुद्धिः यो मद्भक्तः(स्) स मे प्रियः ॥
mayyarpita-mano-buddhiḥ yo madbhaktaḥ(s) sa me priyaḥ ॥
Chapter 12 Shloka 15
यस्मान्नोद्विजते लोको(कः) लोकान्नोद्विजते च यः ।
yasmānnodvijate loko(aḥ) lokānnodvijate ca yaḥ ।
हर्षामर्षभयोद्वेगैः मुक्तो यः(स्) स च मे प्रियः ॥
harṣāmarṣa-bhayo-dvegaiḥ mukto yaḥ(s) sa ca me priyaḥ ॥