पाण्डवकौरवाणां युधिष्ठिरः ज्येष्ठः आसीत्। सः धर्मराजस्य पुत्रः। अतः तस्मिन् दृढता, धृतिः, क्षमा, सुजनता, निष्कपटता, आर्जवम् इत्यादयः श्रेष्ठाः गुणाः आसन्।
युधिष्ठिरः शीलवान् आसीत्। अपि च राजकुमराणां ज्येष्ठः इति हेतोः सः राज्यस्य उत्तराधिकारी इति घोषितम्। अर्थात् धृतराष्ट्रः युधिष्ठिरं यौवराज्यपदे अभिषिक्तवान्। अस्मिन् कार्ये धृतराष्ट्रः सदाशयम् एव वहति स्म।
कालः अतीतः।
हस्तिनापुरवासिनां प्रियः आसीत् युधिष्ठिरः। भीमः सङ्कर्षणात् प्रगतशिक्षणं प्राप्तवान्। गदाप्रयोगे सः निपुणः अभवत्। अर्जुनः बाणप्रयोगे पण्डितः इति सुविदितमेव। इदमत्र उल्लेखार्हं यत् शरविद्या तावत् लक्ष्यं-प्रति तुल्याकार-बाणानां विमोचनमात्रं न। शराः मुसलाः इव विविधाकाराः विभिन्नभारयुक्ताः च आसन्। केचन शराः वक्राः अन्ये केचन ऋजवः च आसन्। केषाञ्चित् शराणाम् अग्रभागाः गुरुतराः। केचन बाणाः नमयितुं शक्याः। अर्जुनः एतेषां सर्वेषां प्रयोगे विशारदः। सः चलतः रथात् एव सञ्चरत् लक्ष्यं वेधयितुं प्रभवति स्म। सहदेवः नीतिशास्त्रं धर्मशास्त्रं च देवगुरु-बृहस्पतितः अधिगतवान्। नकुलः खड्गयुद्धे अद्वितीयः जातः।
एवं पञ्च-पाण्डवाः अजेयाः भवन्ति स्म। समग्रस्य हस्तिनापुरस्य प्रजाः सन्तुष्टाः यतः पाण्डवाः तासां रक्षकाः अभवन्।
दुर्योधनः आ जन्मतः पाण्डवेभ्यः असूयति स्म। क्रमशः परिस्थितयः तथा आपतिताः यत् सा असूया वर्धते स्म। पाण्डवाः सिद्धीः प्राप्य प्रसिद्धाः जाताः। ते द्रुपदं पराजितवन्तः। युधिष्ठिरम् उत्तराधिकारिणं कृतवन्तः। भीमः नवनवयुद्धकलाः अधिगतवान्। अर्जुनः स्वीकृते सर्वस्मिन् अपि कार्ये नैपुण्यं दर्शितवान्।
दुर्योधनः स्वस्य आशङ्काः पितरं धृतराष्ट्रं श्रावितवान् - “पितः! पाण्डवाः अतीव शक्तिशालिनः जायमानाः सन्ति। प्रजाः तेषु स्निह्यन्ति। अस्मान् कौरवान् सर्वे अनादरेण पश्यन्ति। वयं कथं पोषिताः इति भवान् न स्मरति किम्? यदा हस्तिनापुरे अस्माकं शासनम् आसीत् तदा पाण्डवाः वने नैकत्रवासिनः भूत्वा अटन्ति स्म। परन्तु अधुना तेभ्यः भीताः वयम्। अचिरात् वयं स्वदेशात् निर्वासिताः भवेम” इति।
दुर्योधनः अस्मिन् विषये एव पुनःपुनः जनकेन सह सम्भाषते स्म। आदौ धृतराष्ट्रः पाण्डवानां समर्थनं करोति स्म। धर्मपराः पाण्डवाः कौरवान् न पीडयेयुः इति धृतराष्ट्रः पाण्डवपक्षे वचनम् उक्तवान्। किन्तु असकृत् दुर्योधनेन उक्तानि निन्दावचनानि आक्षेपवचनानि च धृतराष्ट्रं पुनर्विचाराय तुदन्ति स्म। स्वपुत्राः कौरवाः अपाये सन्ति वा इति सः स्वयं विचारं कृतवान्। मन्त्रणार्थं मन्त्रिणं कनिकम् आहूतवान्।
धृतराष्ट्रेण आहूतः कनिकः तम् उक्तवान् - “महाराज! भूपः तु सर्वदा जागरूकः आक्रमणार्थं सन्नद्धः च भवेत्। शत्रवः स्वबान्धवाः चेदपि, अभिज्ञातव्याः अवगन्तव्याः च। यथा कूर्मः स्वाङ्गानि कवचे निगूहति तथैव राजा अपि स्वस्य दुर्बलतां गोपयेत्। प्रहारार्थं युक्तिं रचयन् उचिते समये प्रहरेत्। दृष्टान्तत्वेन कथां श्रावयामि”।
एवं च कनिकः धृतराष्ट्रं “शृगाल-व्याघ्र-वृक-नकुल-मूषकाः” इति कथां श्रावितवान्।
“कस्मिंश्चित् वने कश्चन चतुरः शृगालः आसीत्। तस्य चत्वारि मित्राणि आसन् - व्याघ्रः, वृकः, नकुलः मूषकः च। एकदा ते हरिणं दृष्टवन्तः। आहारार्थं हरिणस्य वधं कर्तुम् इष्टवन्तः। परन्तु हरिणः तु निश्चयेन तान् अतिधाविष्यति इति ते जानन्ति स्म। तदा शृगालः सूचितवान् - “वयं चत्वारः यदि मिलित्वा मृगं मारयेम तर्हि तं खादितुं शक्नुमः” इति। शृगालस्य उपायानुसारं मूषकः हरिणस्य पादान् दशति स्म येन सः व्रणितः जातः। अग्रिमदिने व्याघ्रः तं हरिणम् अनुधावितवान्। किन्तु व्रणितपादः हरिणः वेगेन धावितुम् अशक्तः आसीत्। व्याघ्रः तं मारितवान्। शृगालः सन्तोषेण अकथयत् - “हे मित्राणि! सुष्ठु कृतम्। वयं स्नानं कृत्वा एतत् भोजनं करवाम। भवन्तः चत्वारः नदीं गत्वा स्नानं कुर्वन्तु तावता अहं मृगस्य रक्षणं करोमि” इति। चत्वारः नदीं प्राप्तवन्तः। व्याघ्रः प्रथमतः प्रत्यागतवान्। गभीरायां चिन्तायां स्थितं शृगालं दृष्टवान् च। सः पृष्टवान् - “भोः! किम् अभवत्?” इति। शृगालः अवदत् - “मूषकः किम् उक्तवान् इति जानाति वा? यदि अहं हरिण-पाद-दंशनं न अकरिष्यं तर्हि व्याघ्रः तस्य मारणे अशक्तः अभविष्यत्। अतः अहम् एव मुख्यः आखेटकः भोज्यस्य मुख्य-अधिकारी च” इति।
व्याघ्रस्य मानभङ्गः जातः। सः उक्तवान् - मूषकस्य वचनं सत्यमेव। इतः परम् अहं मम बलं सामर्थ्यं चैव आश्रयामि। हरिणं खादितुम् अहं न अर्हः इति कथयित्वा ततः निर्गतवान्।
अनन्तरं मूषकः आगतवान्। शृगालः मूषकम् उद्दिश्य उक्तवान् – “भोः! नकुलः चिन्तयति यत् व्याघ्रनखैः भिन्नं हरिणशरीरं विषयुक्तं जातम्। अतः आदौ भवान् एव तत् भक्षयेत् इति। यदि अहं भवतः स्थाने भविष्यामि, तर्हि झटिति इतः पलायनं कृत्वा कुत्रचित् निलीय स्थास्यामि” इति।
एतत् आकर्ण्य भीतः मूषकः ततः पलायितवान्।
वृकः प्रत्यागतवान्। शृगालः तम् उद्दिश्य उक्तवान् - मित्र! व्याघ्रः कस्माच्चित् कारणात् भवते कुप्यति। स्वपत्नीम् आनेतुं गतवान् अस्ति। अत्रैव स्थित्वा किं भविष्यति इति द्रष्टुम् इच्छति किम्? यदि अहं भवतः स्थाने भवेयं तर्हि आत्मरक्षणं कुर्याम्।
भोजनं निरीक्ष्य कुपितस्य व्याघ्रस्य लक्ष्यं भवेयम् उत पलायनं कुर्याम् इति वृकः सम्भ्रान्तः अभवत्। अन्ततो गत्वा सः त्वरया निर्गतः।
अन्ते नकुलः आगतवान्। शृगालः तस्मै कथितवान् - “पश्यतु! भीतिम् उत्पाद्य अहं मूषकस्य वृकस्य व्याघ्रस्य च पलायनं कारितवान्। ते सर्वे मम शस्त्रबलं दृष्ट्वा पलायिताः। यदि हरिणं खादितुम् इच्छति तर्हि आदौ मया सह युद्धं करोतु” इति। यस्मात् व्याघ्रः एव भीतः तेन सह योद्धुम् अनिच्छन् सः नकुलः अपि ततः निर्गतवान्।
शृगालः एकाकी तद् अविभक्तं भुक्तवान्।
इत्थं श्रावयित्वा कनिकः कथां समापितवान् कथितवान् च “शृगालस्य नीतिः एव नृपस्य नीतिः भवेत्। स्वार्थसिद्ध्यर्थं शत्रुणा सह कपटमैत्रीं कुर्यात् नृपः। कार्ये सिद्धे सति तं परित्यजेत् उचिते काले तं मारयेत् च। पाण्डवाः भवतः अहितं न कुर्युः। किन्तु प्रभो कुतः स्वयम् अपायस्य द्वारम् उद्घाटयति भवान्? यदि ते अतिशक्तिशालिनः भविष्यन्ति तर्हि भवान् आत्मानं पुत्रान् च रक्षितुं नैव शक्ष्यति।
एवम् उक्त्वा कनिकः निवृत्तवान्। धृतराष्ट्रः पाण्डवानां जनप्रियताविषये किमपि करणीयम् इति मतिं कृतवान्।
श्रेयः प्रेयः इति अनयोः विषये उपनिषदः कथयन्ति। प्रारम्भे श्रेयसि यद्यपि लाभः न दृश्यते, तत् चिरकाले हिताय भवति। अपरस्मिन् पक्षे प्रेयसः तात्कालिकं प्रतोषं प्राप्तुं शक्यं परन्तु तत्तु चिरकाले हानये कल्पते।
प्रारम्भे शृगालः बुद्धिमान् इव भाति। सः मित्राणां द्वारा हरिणस्य वधं कारयति। अनन्तरं कुनीत्या समग्रं हरिणं स्वस्मै सम्पादयति। वृकः प्रशंसनीयः इव प्रतीयते, तस्य मार्गः सन्तोषप्रदः सिद्धिप्रदः च दृश्येत। यथा कनिकः अवदत् - “यदि नृपाः वृकः इव आचरेयुः तर्हि ते सुखं प्राप्नुयुः” इति।
परं कथां किञ्चित् गभीरतया पश्यामः चेत् अवगच्छामः यत् शृगालः न तावद् बुद्धिमान्। कृत्स्नं हरिणं तु सः प्राप्तवान्, किन्तु तस्य आवश्यकता आसीत् वा? नैव। तस्य बुभुक्षा-अहङ्कार-दर्प-लुब्धतादेः परिपोषणात् ऋते न किमपि प्रयोजनं सिद्धं किल। स्वाकाराद् अपि बृहदाकारं हरिणं समग्रतया खादितुम् अपि न शक्यते तेन। शिष्टः भागः श्वस्तनः आहारः इति कृत्वा वने संरक्षितुं शक्यं किम्? शीघ्रमेव पूतिगन्धिः जायमानः मांसः अन्येद्युः अभक्ष्यः भवेत्। मित्रैः सह मिलित्वा खादितुं शक्यं किन्तु तस्य अन्यानि मित्राणि एव कुतः? तस्य मित्रेभ्यः एव ननु सः हरिणम् अपहृतवान्।
अपि च शृगालः एकाकी भूत्वा हरिणं मारयितुम् असमर्थः।
मित्राणां मनसि परस्परं वैरित्वम् उत्पाद्य शृगालः न केवलं गणस्य एकतां नाशितवान् अपि च प्रत्येकं हृदि अविश्वासस्य तमसः च बीजानि उप्तवान्।
This precisely is Preyas - immediate satisfaction as against long term good.
एतद् एव यथार्थतया प्रेयः - क्षणिका तृप्तिः न तु चिरकालहितम्।
महाभारते युधिष्ठिरः पाण्डवाः च अनवरतं श्रेयसः मार्गम् आश्रयन्ति। दुर्योधनेन नीताः कौरवाः तु प्रेयसः मार्गम् अनुसरन्ति।
अद्यत्वेऽपि वयं प्रेयोमार्गम् आश्रयामः। व्यापकदृष्ट्या पश्यामः चेत् वैश्विक-ताप-वर्धनम् इतः शतकात्मक-कालाभ्यन्तरे पृथिवीम् एव नाशयेत्। किन्तु अस्मिन् विषये अचिन्तयन्तः वयं प्रकृतेः संसाधनानां प्रदोहं केवलम् अद्यतन-आवश्यकतानां पूरणाय कुर्मः।
दैनन्दिन-जीवने महत्या त्वरया कार्यसम्पादनस्य प्रवृत्तिः अस्मासु भवति। कार्ये प्रशस्ततार्जनस्य अपेक्षया वेतनवृद्ध्यर्थम् उद्योगात् उद्योगं प्रति गच्छामः। उद्योगे पदोन्नत्यर्थम् उद्यमेन कार्यसिद्धेः अपेक्षया स्वामिनं प्रीणयामः। परीक्षायाम् उत्तीर्णता एव शिक्षार्जनस्य लक्ष्यं न तु वृत्त्यां प्रगतिः।
प्रेयः अस्मान् सर्वदा विमोहयति। तत् सद्यः सुखं दद्यात् किन्तु तद् अल्पकालिकं भवति। परन्तु श्रेयः तावत् धर्मः। अस्य फलं हितकरं तृप्तिकरं चिरस्थायि च भवति।