कुन्त्या परित्यक्तं बालं कर्णं सारथिः अतिरथः गृहीतवान्। सः पत्न्या राधया सह तं बालं स्वपुत्रमिव पालयति स्म। राधायाः पुत्रः सः राधेयः इति अपरेण नाम्ना अभिधीयते।
हस्तिनापुर-राज्ये यत्र पाण्डव-कौरवाः निवसन्ति स्म तस्मिन् नगरे एव सारथिः अतिरथः निवसति स्म। बाल्ये कर्णः द्रोणस्य गुरुकुलविषये ज्ञात्वा तत् प्रवेष्टुम् इष्टवान्। सः राजकुलोत्पन्नः न, अपि तु सूतपुत्रः इति हेतोः द्रोणः तं गुरुकुलप्रवेशात् निवारितवान्। कर्णः दुःखेन प्रतिगतवान्।
वस्तुतः कर्णः कुन्तीदेव्याः ज्येष्ठपुत्रः। सूर्यदेवः तस्य पिता। तथापि तस्य पालन-पोषणं क्षत्रियस्य इव न जातम्। तस्य क्षत्रियत्वं लोकः न जानाति स्म। स्वस्य वंशागतम् अधिकारं भोक्तुम् अवसरम् एव न प्राप्तवान् सः।
द्रोणः कर्णं निराकृतवान् इति कृत्वा सः धनुर्विद्याभ्यासं स्वयमेव कृतवान्। सः प्रकृत्या समर्थः इत्यत्र सन्देहः नैव आसीत्। “अर्जुनेन उन्नतवृक्षस्थः काष्ठपक्षी बाणेन पातितः” इति अर्जुनस्य शौर्यकार्यं यदा कर्णः शृणोति स्म, झटिति सः तत् कार्यम् अनुकरोति स्म। यदि अर्जुनः दूरे स्थितं लक्ष्यं ताडयितुं समर्थः अस्ति तर्हि अहम् अपि तथा कर्तुं शक्नोमि इति सः चिन्तितवान्। युगपत् बाणद्वयं प्रमुच्य दूरात् एव वृक्षस्थं काष्ठखगं पातितवान् सः। अनेन अर्जुनस्य अपेक्षया अपि विशिष्टं स्वस्य कौशलं प्रदर्शितवान् कर्णः।
द्रोणेन तिरस्कृतः कर्णः आत्मानम् अर्जुनस्य प्रतिस्पर्धिनं मतवान्। तस्य असूया कालक्रमेण द्वेषरूपेण परिवर्तिता।
यद्यपि कर्णः स्वयमेव धनुर्विद्याभ्यासं कृतवान् तथापि सः शीघ्रमेव गुरोः आवश्यकताम् अनुज्ञातवान्। द्रोणेन निराकृतः सः शर-शिक्षणं प्राप्तुं परशुरामम् उपगतवान्। परन्तु परशुरामः केवलं ब्राह्मणेभ्यः शिक्षणं दत्तवान्, कर्णः ब्राह्मणः नासीत्। अतः कर्णः ब्राह्मणवेषं धृत्वा परशुरामात् युद्धकलां बाणप्रयोगं च अधिगतवान्। सः मन्त्रसहितानि अस्त्रप्रयोगतन्त्राणि अधिगतवान्। ब्रह्मास्त्रविद्यां च प्राप्तवान्।
कदाचित् परशुरामः बहुश्रान्तः आसीत्। सः कर्णस्य अङ्के शिरः निधाय निद्रितः। तदा कश्चन बृहद्-भृङ्गः कर्णस्य अङ्के उपविष्टः। भृङ्गः कर्णस्य ऊरोः चर्म मांसं च दशति स्म। कर्णः महतीं वेदनाम् अनुभूतवान्। कर्णः किञ्चित् अपि न् विचलितवान्। गुरोः निद्राभङ्गः मा भवतु इति चिन्तितवान्। सः अपरिमितां वेदनां सोढवान्। भृङ्गः कर्णस्य ऊरु-मांसे तथा वेधनम् अकरोत् येन रक्तपातः आरब्धः। तदापि कर्णः निश्चलः आसीत्। व्रणात् स्रुतेन रक्तेन परशुरामस्य मुखम् आर्द्रं जातम्। अतः सः उत्थितवान् |।
एतद् दृष्ट्वा परशुरामः आश्चर्यचकितः खिन्नः च अभवत्। ब्राह्मणवेषः कर्णः वास्तविकं स्वपरिचयं न कृतवान् इति सः ज्ञातवान्। “भवान् कः?” इति कर्णं पृष्टवान्।
स्वस्य मिथ्यावचनं गुरुः ज्ञातवान् इति कर्णः मौनं स्थितवान्। परशुरामः उक्तवान् - “कर्ण! यद्यपि भवान् धैर्यपूर्वकम् इदं सत्कार्यं कृतवान्, तथापि अस्मात् कार्यात् भवान् ब्राह्मणः नास्ति इति स्पष्टं जातम्। कोऽपि ब्राह्मणः ईदृशीं वेदनां सोढुं न शक्नोति। क्षत्रियः एव तत् शक्नोति। भवतः यथार्थपरिचयं सम्प्रति एव प्रकटीकरोतु” इति।
कर्णः प्रतिभणितवान् “गुरो! भवतः निद्राभङ्गः न भवेत् इति उद्देशेन अहं पीडां सोढवान्।” सः लज्जया क्षमां याचितवान्। उक्तवान् च “अहं क्षत्रियः न, ब्राह्मणः अपि न। हस्तिनापुरस्य सारथेः अतिरथस्य पुत्रः। शिक्षार्थम् अहं भवतः सकाशम् आगतवान्। भवान् ब्राह्मणानाम् एव शिक्षणं करोति इति अहम् असत्यवचनं भणितवान् |
कुपितः परशुरामः कर्णं शप्तवान् “अधर्मक्रमेण भवान् युद्धकला-कौशलं प्राप्तवान् इत्यस्य दुष्परिणामम् अपि अनुभवेत्। यदा ब्रह्मास्त्रस्य अत्यावश्यकता भविष्यति तदा तस्य प्रयोगविधिं भवान् विस्मरिष्यति। मन्त्राः भवतः साधकाः न भविष्यन्ति। महायुधं प्रयोजनरहितं भविष्यति। मम दृष्टितः अपगच्छतु” इति।
कर्णः दुःखितः जातः। परन्तु सः स्वदोषम् अवगतवान्। असत्यमार्गेण लब्धं किमपि वस्तु चिरस्थायि न भवति। कर्णः परशुरामस्य आश्रमात् निर्गतवान्।
अन्यस्मिन् सन्दर्भे कर्णः प्रमादवशात् काञ्चित् धेनुं बाणेन मारितवान्। धेनुः तत्क्षणे एव मृता। वृद्धः ब्राह्मणः यः धेनोः स्वामी आसीत् सः तां धेनुम् अतीव प्रीणाति स्म। अतः सः दुःखितः ब्राह्मणः कर्णं शप्तवान् यत् “भवान् दीनां धेनुं मारितवान् अस्ति इत्यतः अग्रे युद्धे एवमेव दीनस्थित्यां मरणं प्राप्स्यति” इति।
एते शापाः कुरुक्षेत्रयुद्धमृत्युदाः भवेयुः इति तस्मिन् समये कर्णः न चिन्तितवान्।
कर्णस्य दृष्टिः, कर्माणि, दुर्योधनं प्रति निष्ठा, पालकपितरौ प्रति स्नेहः, प्रतिबद्धताभावः च तं धर्ममूर्तिं चित्रयति।
एतेषु गुणेषु सत्सु अपि कर्णस्य यशसः कारणम् आसीत् तस्य उदारता। यदि कोऽपि तं द्रव्यं वा साहाय्यं वा याचते तर्हि सः प्रतिप्रश्नं विना उपकरोति।
भारतदेशे बहुशः सर्वासु भाषासु ‘दाने सः कर्णसदृशः’ इति वचनं लोकोक्तिरूपेण अस्ति। “अहो! भवान् कर्णः इव अस्ति’’ इति जनाः स्तुतिं कुर्वन्ति। कदाचित् कथयन्ति “किमर्थम् एतावत् प्रददाति? भवान् कर्णः किम्?” इति।
स्वेन दत्तं वचनं पालयितुं कर्णः शक्तिम् अतिक्रम्य अपि यत्नं करोति स्म। महाभारते बहवः सन्दर्भाः सन्ति यत्र कर्णस्य औदार्यं कीर्तितम् अस्ति। एषः गुणः कर्णस्य साधकं बाधकं च उभयमपि आसीत्। आजीवनं सः धर्ममार्गात् नैव विचलितवान्।
जीवने यद्यपि बहवः सम्भ्रमाः, बाधाः च आसन् तथापि कर्णः तु “धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः” इति वचनस्य साकाररूपः अस्ति। (हतः नाशितः धर्मः हन्ति नाशयति एव, रक्षितः धर्मः रक्षति इत्यर्थः।)