सर्वे राजकुमाराः स्वनैपुण्यं प्रदर्शितवन्तः। परीक्षा सम्पन्ना। अध्ययनकालः परिसमाप्तः।
नैपुण्यप्रदर्शने युधिष्ठिरः प्रतापवान् आसीत्। भीमः दुर्योधनः च गदायुद्धे शूरौ उग्रौ च। किन्तु सर्वोत्कृष्टः अर्जुनः आसीत्। सः बाणप्रयोगे अपार-दक्षतां प्रदर्शितवान्। दर्शकाः आह्लादिताः अभवन्। ज्येष्ठाः कुमाराणां कौशलं दृष्ट्वा अतीव सन्तुष्टाः। महाराज्ञ्यः आनन्दाश्रूणि मुञ्चन्ति स्म। अन्तिमक्षणेषु कर्णस्य रङ्गप्रवेशः शौर्यप्रदर्शनं च विशिष्टम् आसीत्।
गुरुकुलपद्धत्या शिक्षणस्य समाप्तिसमये शिष्यः गुरवे काञ्चिद् दक्षिणाम् अर्पयति। एषा दक्षिणा शुल्करूपा द्रव्यरूपा वा न, अपि तु क्रियारूपा वररूपा वा भवेत्।
द्रोणः शिष्यान् सम्बोधितवान् - “धीराः! भवतां शिक्षणं सम्पूर्णम्। अधुना गुरुदक्षिणाकालः प्राप्तः” इति।
पाण्डवाः कौरवाः च विनयेन द्रोणं नमस्कृतवन्तः। आचार्यः पुनरुक्तवान् - “मम दक्षिणारूपेण पाञ्चालराजं द्रुपदं बन्दीकृत्य आनयन्तु। तस्य सैन्यं पराजित्य राज्यम् अपहरन्तु, द्रुपदं सजीवम् आनयन्तु। मदर्थे दातव्या गुरुदक्षिणा एषा” इति।
कुरुवंशकुमाराः रथैः पाञ्चालदेशं प्रति प्रस्थितवन्तः तथैव करिष्यामः इति शिरश्चालनद्वारा सूचयित्वा। आचार्यं द्रोणम् अवमानभावात् मोचयितुं तस्य प्रतीकारं निर्वर्तयितुं च द्रुपदं सजीवं ग्रहीतुं प्रस्थिताः।
रथारूढाः कौरवाः पाञ्चालदेशं प्रति गताः, पाण्डवाः तान् अनुगताः।
कौरवाणां सैन्ये दुर्योधन-दुश्शासन-प्रभृतयः शतं सोदराः आसन्। कर्णः युयुत्सुः विकर्णः सुलोचनः च युद्ध-विशारदाः आसन्। आदौ कौरवाः युद्धार्थं गताः। तदा पाण्डवाः पाञ्चालप्रासादात् क्रोशकात्मके दूरे स्थित्वा निरीक्षां कृतवन्तः।
नृपः द्रुपदः असामान्यः योद्धा। सः बाल्ये द्रोणस्य सहशिक्षार्थी आसीत् इत्यतः उभौ अपि प्रायः समान-युद्धकलाः अधिगतवन्तौ। द्रुपदपक्षे तद्भ्रातॄणां पाञ्चालराजकुमाराणां च सैन्यबलम् आसीत्।
दीर्घस्य क्लिष्टकरस्य युद्धानन्तरं कौरवाणां पराजयः जातः। द्रुपदस्य बलिष्ठसैन्येन कौरवाः अभिभूताः ।
कौरवेषु प्रत्यागतेषु पाण्डवानां पर्यायः आरब्धः। अर्जुनः आदरभावात् युधिष्ठिरं सम्प्रार्थ्य युद्धे भागग्रहणात् निवारितवान्। सः नकुल-सहदेवाभ्यां सह रथारूढः सन् प्रस्थितवान्। नकुलसहदेवौ प्रधानवीरम् अर्जुनम् तस्य रथनेमी च उभयतः रक्षितवन्तौ। गदापाणिः भीमः प्रकुपितः वृषभः इव पृथक् मार्गेण योद्धुं गतवान्। सः एकाकी एव गजसमूहमध्यतः प्रधावन् तत् सैन्यदलं नाशितवान्। अत्रान्तरे अर्जुनः चतुरतया उत्कृष्टबाणप्रयोगेण शिष्टान् वीरान् सम्भ्रामितवान्। सः बाणान् अतिवेगेन मुक्तवान् इत्यतः बाणस्य संयोजनविमोचनयोः मध्ये कालस्य अन्तरं केनापि न ज्ञायते स्म। तस्य बाणप्रयोगः भुषुण्डियन्त्रस्य इव प्रतिभासते स्म। अर्जुनः पाञ्चालदेशस्य सेनाध्यक्षं सत्यजितं पराजित्य साक्षात् द्रुपदं पराक्रान्तवान्। सेनायाः पक्षात् पक्षं प्रति त्वरमाणः भीमः सिंहवत् गर्जन्, गजान् मारयन्, सैनिकान् ध्वंसयन् च अग्रे गतः। साहाय्यान्तरं विना एव सः अनेकान् सैन्यपक्षान् पराजितवान्।
अर्जुन-द्रुपदयोः मध्ये महायुद्धं प्रवृत्तम्। द्रुपदस्य एकैकस्य शरस्य प्रत्युत्तरम् अर्जुनः तुल्येन प्रत्यस्त्रेण कृतवान्। अन्ते अर्जुनः द्रुपदस्य बाणं खण्डितवान् , तं निरायुधं च कृतवान्। सः रथात् अश्वान् वियोजितवान्, द्रुपदस्य रथे कूर्दित्वा तं बलेन गृहीतवान्। एतद् दृष्ट्वा पाञ्चालसैन्यम् इतस्ततः विकीर्णं पलायितं च। इयत्तया युद्धं कृत्वा अपि अतृप्तम् भीमम् उद्दिश्य अर्जुनः उक्तवान् “द्रुपदः अस्माकं वशम् आगतः। अत्रागमनस्य प्रयोजनम् अस्माभिः साधितम्। शिष्टसैनिकाः जीवन्तु” इति। भीमः अर्जुनस्य वचनम् अङ्गीकृतवान्। पाण्डवाः बन्दीभूतेन द्रुपदेन सह पाञ्चालदेशात् निर्गतवन्तः। द्रोणम् उपगत्य ते गुरुदक्षिणां समर्पितवन्तः।
द्रोणः प्रतीकारभावेन परिहसन् द्रुपदम् उक्तवान् “भोः! भवतः राज्यम् इदानीं विनाथं जातं, राजधानी अस्माभिः गृहीता, सेना पराजिता , प्रासादः मम अधीने अस्ति। वस्तुतः भवतः प्राणाः मम वशे” इति। अपि च द्रोणः मन्दहासेन पुनरुक्तवान् “भीतिः मास्तु , भवतः वधं तु न करोमि। हननं ब्राह्मणानां रीतिः नास्ति। आवां बाल्यकाले मिलित्वा क्रीडितवन्तौ - तद् मम स्मरणे अधुना अपि अस्ति। अहं केवलम् आवयोः मैत्रीम् एव वाञ्छामि। भवान् पुनः मां मित्रवत् भावयति किम्” इति पृष्टवान्।
द्रोणः द्रुपदः च तूष्णीं भूत्वा स्थिरदृष्ट्या निर्निमेषं परस्परं दृष्टवन्तौ। पराजिताः कौरवाः जैत्राः पाण्डवाः च कुतूहलेन पश्यन्ति स्म।
द्रोणः पुनः उक्तवान् “तिष्ठतु। सख्यं तु तुल्यजनेषु एव भवितुम् अर्हति इति भवान् उक्तवान् ननु? कश्चन नराधिपः कदापि सामान्यदरिद्रेण सह सख्यं कर्तुं न शक्नोति इति उक्तवान् किल? अस्तु , तर्हि सम्प्रति भवतः राजधानी मम अधीने अस्ति , भवान् निःस्वः। अधुनापि आवां समानौ न। भवतः विचारानुसारम् आवयोः मैत्री भवितुं नार्हति। तर्हि किं करवाव?
द्रोणः कोपं संहरन्निव सद्यः प्राप्तोपायः इति व्याजाश्चर्यं प्रकटयन् उक्तवान् “भवतु नाम, राज्यस्य अर्धभागं भवते ददामि, शेषम् अहं धरामि। तर्हि आवयोः समत्वं भवति। प्रिय मित्र! आवां सम्प्रति सुहृदौ भवावः किल?”
श्रान्तः ग्लानः द्रुपदः दृष्टिचलनं विना द्रोणं पश्यन् शनैः प्रत्यवदत् “भवतः व्यवहारेण अहं न विस्मितः। भवान् तु आर्यः पराक्रमी च। भवत: मैत्रीं प्राप्य अहं कृतज्ञ: अस्मि। भवतः वचनम् अङ्गीकरोमि। भवान् सदैव मम प्रिय-स्नेहितः आसीत् , आजीवनं मम मित्रं भविष्यति च” इति।
इत्थं पाञ्चालदेशः द्विधा विभक्तः। गङ्गानद्याः एकस्मिन् तीरे स्थितः भूभागः द्रोणस्य , अपरस्मिन् तीरे स्थितः भूभागः द्रुपदस्य च अधीने अभवत्। द्रुपदस्य राज्यं ततः परं काम्पिल्य-नाम्ना परिचितं जातम्।
राज्यस्य विभजने जाते द्रुपदः स्वेन प्राप्तम् अपमानं विस्मर्तुं न शक्तवान्। सः द्रोणाय अतिकुपितः आसीत्। तेन सह प्रतिवैरित्वम् आचरितुम् इष्टवान्। परन्तु यावद् अर्जुनः द्रोणपक्षे तिष्ठति तावत् सः किमपि कर्तुं न प्रभवति इति अपि अवगतवान्। प्राज्ञैः सह सम्भाष्य स्वयं च विचिन्त्य द्रुपदः महान्तं यज्ञम् अनुष्ठितवान्। यज्ञे सः वरद्वयं याचितवान्। एकेन वरेण तादृशं पुत्रं प्रार्थितवान् यः द्रोणस्य वधं कुर्यात्। द्वितीयेन वरेण पुत्रीं प्रार्थितवान् या अर्जुनस्य भार्या भवेत्। अस्मात् अर्जुनः तस्य जामाता सन् रणसाहाय्यकः भवेत्।
यज्ञस्य परिणामतः द्रुपदस्य सन्ततिद्वयम् अभवत्। धृष्टद्युम्नः नाम्ना पुत्रः द्रौपदी इति पुत्री च।
कस्यचित् चित्तविकारस्य प्रतिक्रिया अपरः चित्तविकारः नैव भवितुम् अर्हति। गाढ-सुहृदौ द्रुपदः द्रोणः च अभिमानः असूया क्रोधः वैरित्वं प्रतिवैरित्वं च इति दोषाणां शृङ्खलया अन्योन्यसौहार्दं नाशितवन्तौ।