विष्णुशर्मामहाशयः पुत्रत्रयं छात्ररूपेण स्वीकृतवान्। सः तान् उक्तवान् - “वने मित्रद्वयं - वृषभः सिंहः च निवसतः स्म। परन्तु तयोः मैत्री एकेन धूर्तशृगालेन नष्टीकृता।”
“कथम्?” इति यदा पुत्रैः पृष्टं तदा विष्णुशर्मामहाशयः एतां कथां श्रावितवान्।
महिलारोप्यनगरे वर्धमानकः नाम्ना कश्चन समृद्धः वणिक् आसीत्। एकदा धनविषये तस्य मनसि एषा सूक्तिः आगता -
नास्ति चेत्, अर्जनाय प्रयत्नं क्रियताम्!
यदा आगच्छति, तस्य संरक्षणं क्रियताम्!
रक्षणे कुर्वति, तस्य अभिवृद्धिः क्रियताम्!
यदा वृद्धिः जाता, दानं क्रियताम्!
वर्धमानकः समृद्धः वणिक्। सः तस्य व्यापारं वर्धयितुम् इष्टवान्। अतः व्यापाराय सः मथुरायै प्रस्थानं कृतवान्। विक्रेतव्यानि वस्तूनि सः शकटे स्थापितवान्। शकटः वृषभद्वयं नन्दकः सञ्जीवकः च चालयतः स्म।
मार्गे घोरवनम्। वने अविदिततया सञ्जीवकः पङ्के पादं स्थापितवान्। झटिति तस्य पादः पङ्के न्यमज्जत्। सञ्जीवकः व्रणितः अभवत्। सः अग्रे गन्तुं न शक्तवान्।
वर्धमानकः वृषभस्य पादं परिष्कर्तुं प्रयत्तवान् परन्तु तेन साफल्यं न प्राप्तम्। शकटे मूल्यवन्ति वस्तूनि आसन्। वने बहवः अपायाः आसन्। यद्यपि तस्य वृषभं प्रति प्रीतिः आसीत् तथापि सः तेन सह तत्रैव स्थातुं न शक्तवान्। वृषभेन सह तिष्ठन्तु इति वर्धमानकः तस्य सेवकान् उक्त्वा अग्रे गतवान्। सेवकाः वनभयात् वृषभं त्यक्त्वा केषाञ्चित् दिनानाम् अनन्तरं तेषां स्वामिनं मेलनार्थं गतवन्तः। वृषभः मृतः इति असत्यं तैः वर्धमानकं सूचितम्।
वस्तुतः सञ्जीवकः न मृतः। गच्छता कालेन सः स्वस्थः अभवत्। हरितं तृणं खादित्वा, यमुनानद्याः जलं पीत्वा सः आरोग्यं प्राप्तवान्।
तस्मिन् वने एव पिङ्गलकः नाम्ना सिंहः निवसति स्म। सिंहः वनस्य राजा। सः कस्मात् अपि न बिभेति। एकदा यदा सिंहः वृषभस्य रम्भणं श्रुतवान् सः विस्मितः अभवत्। सर्वदा वने स्थितेन सिंहेन पूर्वं कदापि वृषभस्य रम्भणं न श्रुतम्। सः भीतः। वनस्य घनभागं गत्वा सः वटवृक्षस्य अधः उपविष्टवान् चिन्तितवान् च। तत्र तस्य मन्त्रिगणः अन्ये पशवः चापि आसन्।
तत्र शृगालद्वयम् अपि उपस्थितम्। तौ करटकः (अवधानयुक्तः) दमनकः (निर्भयः) च। तौ भूतपूर्वमन्त्रिणः पुत्रौ। परन्तु इदानीं तौ कार्यहीनौ आस्ताम्।
चिन्ताग्रस्तं सिंहं दृष्ट्वा दमनकः करटकम् उक्तवान् - “आवयोः राजा व्याकुलः। केन कारणेन?”
करटकः उत्तरं दत्तवान् - “तेन आवयोः कः सम्बन्धः? यः अन्येषां कार्येषु चञ्चूप्रवेशं करोति सः ‘काष्ठखण्ड-कर्षन्-वानरः’ इव निश्चयेन विनाशं प्राप्नोति।”
“काष्ठखण्ड-कर्षन्-वानरः किं कृतवान्?” - दमनकः सकुतूहलं पृष्टवान्।
करटकः काष्ठखण्ड-कर्षन्-वानरस्य कथां श्रावितवान्।