If there are any errors in the script or the narration, please send a note to sriram@gurukula.com
Narrator: Sirisha Budavarthy (शिरीषा बुदवर्ति)
द्वीपेषु पुष्करद्वीपः क्रौञ्चद्वीपः च बहुप्रसिद्धौ, प्रतिवेशिनौ च । द्वीपान्तराणां सर्वे अपि राजानः क्रौञ्चद्वीपराजस्य मित्राणि एव । किन्तु पुष्करद्वीपस्य राजा तु क्रौञ्चद्वीपस्य राजानं न बहुमन्यते, न आद्रियते, प्रत्युत तिरस्कारेण पश्यति च । अन्येषाम् उपहसनम्, आत्मनः गर्वप्रदर्शनं च तस्य स्वभावः । क्रौञ्चद्वीपस्य राजा तु तम् अपि मित्रं कर्तुम् इच्छति स्म । ‘तस्य मैत्रीं यदि सम्पादयामि, तदा मम मद्राज्यस्य च भीतिः नास्ति । पार्श्ववर्तिनोः आवयोः एव कलहः युद्धं च यदि भविष्यतः, तदा द्वयोः राज्ययोः अपि हानिः, प्रजानां कष्टं च’ इति क्रौञ्चद्वीपराजस्य भावना ।
‘किन्तु आवयोः द्वयोः अपि कः मैत्रीम् उत्पादयेत् ? अत्र कः समर्थः ? कः प्रेषणीयः ?’ इति विचिन्त्य दूरदर्शिनामानं महामन्त्रिणम् एव पुष्करद्वीपं प्रति क्रौञ्चद्वीपराजः प्रेषितवान् ।
‘प्रपञ्चे अहम् एव बुद्धिमान्’ इति पुष्करद्वीपराजस्य भावना । अतः ‘आगतस्य महामन्त्रिणः अवमाननं कृत्वा प्रेषयामि’ इति सः चिन्तितवान् ।
दूरदर्शी महाद्वारम् आगतवान् । द्वारपालाः झटिति एव द्वारं पिहितवन्तः । राजा अपि आगत्य उपहसन् उक्तवान् - “भोः महामन्त्रिन् ! तत्र पश्यतु । शुनकानां प्रवेशार्थं रन्ध्रम् एकं दृश्यते किल ? यदि अन्तः प्रवेष्टुम् इच्छति, तेन एव रन्ध्रेण भवान् अपि प्रविशतु” इति ।
दूरदर्शी राजानं दूरतः एव नमस्कृत्य उक्तवान् - “यथा आज्ञापयति महाप्रभो ! वयं मनुष्याणां देशे मनुष्याणां द्वारेण एव प्रविशामः, शुनकानां देशे शुनकानां द्वारेण एव प्रविशामः । अस्माकं लक्ष्यं तु मैत्री एव । अतः शुनकद्वारेण एव प्रविशामि ।”
एतत् श्रुत्वा पुष्करराजस्य मुखं लज्जया विवर्णं जातम् । दूरदर्शिनं महाद्वरेण एव प्रवेश्य, सिंहासनस्य पार्श्वे एकस्मिन् आसन्दे उपवेशितवान् ।
दूरदर्शी अतीव वामनः आसीत् । अतः तस्य अपेक्षया अपि आसन्दः एव महान् दृश्यते स्म । पुनः तम् अवमानयितुं राजा पृष्टवान् - “भोः मन्त्रिन् ! भवतः बुद्धिः इव भवतां राज्यस्य जनाः अपि वामनाः किम् ?”
“राजन् ! अस्माकं देशे वामनाः अपि सन्ति, प्रांशवः अपि सन्ति । अल्पेषु वामनाः प्रेष्यन्ते, उदारेषु प्रांशवः प्रेष्यन्ते । एषः च अस्माकं राज्यस्य नियमः । अतः भवतः समीपे अहं प्रेषितः” इति दूरदर्शी उत्तरं दत्तवान् ।
उत्तरं श्रुत्वा राज्ञः कपोलयोः चपेटिकायाः अनुभवः अभवत् । ‘एतं मन्त्रिणं कथं वा अवमानयामि’ इति चिन्तितवान् राजा ।
तदा पुरुषम् एकं बद्ध्वा आनीय भटाः उक्तवन्तः - “प्रभो ! एषः क्रौञ्चदेशीयः । अत्र चौर्यं करोति स्म । तत् वयं दृष्टवन्तः । तत्क्षणे एव बद्ध्वा आनीतवन्तः” इति ।
“भोः क्रौञ्चमन्त्रिन् ! भवतः राज्यस्थाः सर्वे अपि किं चोराः ?” इति पुष्करराजः सोत्साहं पृष्टवान् ।
क्रौञ्चमन्त्री उत्तरं दत्तवान् - “प्रभो ! एतद्देशस्य एषः प्रभावः यत् अत्र आगतानाम् अपि एतद्देशस्था बुद्धिः उत्पन्ना भवति । अस्माकं देशे चौर्यस्य वार्ता अपि न श्रूयते । भवदीयाः यदि आगच्छन्ति ते अपि चौर्यम् सर्वथा न कुर्वन्ति । अतः भवतः मैत्रीं सम्पादयितुम् अहम् अत्र आगतवान् ।”
पराजितः पुष्करराजः उक्तवान् - “भवतः स्वामी अहं च इतःपरं सखायौ ।”
एवं वामनः दूरदर्शी स्वकार्यभारं यशस्वितया निरूढवान् । ततः सन्तोषेण स्वराज्यं प्रतिनिवृत्तवान् ।