If there are any errors in the script or the narration, please send a note to sriram@gurukula.com
Narrator: Bharata B Rao (भरतः)
एकस्मिन् ग्रामे शिवदासनामकः महान् देवभक्तः आसीत् । सः निस्वार्थी परोपकारी च । अतः एव ग्रामं ग्रामं गत्वा जनानां कृते उपदेशं ददाति स्म । देवस्य महिमातिशयं सर्वेषां जनानां कृते बोधयति स्म ।
एवम् एव सः एकवारं रामनगरनामकं ग्रामम् आगतवान् । तत्रस्थानाम् आस्तिकानां कृते भगवद्विषयकं विचारम् उपदिशन् सः एवम् उक्तवान् - “देवः सर्वप्राणिनां कृते अपि आहारं ददाति । अतः एव नवजातः शिशुः स्तन्यपानं करोति । पिपीलिका-सदृशानां जीविनां कृते अपि योग्यम् आहारं देवः दापयति । क्षुद्रजन्तून् अपि सः न विस्मरति । एकः अपि जन्तुः आहारं विना मृतः न भवति । देवः सर्वान् अपि रक्षति । दरिद्रस्य अपि अन्नं दापयति । एवं सर्वेषां प्राणिनां कृते यथाकथञ्चित् आहारं ददाति एव । अत्र संशयः नास्ति” इति ।
एवम् एव उपन्यासः प्रचलन् आसीत् । जनाः सर्वे आनन्दतुन्दिलाः आसन् । तेषां मध्ये सुदर्शनः नाम एकः वितण्डवादी आसीत् । सः एतत् अङ्गीकर्तुं सिद्धः न आसीत् । सः मध्ये एव उत्थाय उक्तवान् - “स्वामिन् ! भवतः वाक्यं विचित्रम् इव भाति । एतत् अहं न अङ्गीकरोमि । ‘न खादामि अहम्’ इति प्रतिज्ञाय एकः उपविशति चेत् देवः कथं खादयति ? माता यथा बालकान् भोजयति, तथैव देवः आगत्य बलेन खादयति वा ? एतत् अङ्गीकर्तुं न शक्यते” इति ।
तदा देवभक्तः - “देवस्य तत् कष्टं कार्यं न । दुराग्रहिणः अपि कथं भोजनीयाः इति सः जानाति । भोजनं विना जीवितुं न त्यजति” इति उक्तवान् ।
सुदर्शनः मनसि एव ‘एतेन सह वादेन प्रयोजनं नास्ति । अतः अहं गृहे किमपि न खादामि । तदा अस्य भक्तस्य देवः आगत्य खादयति वा इति पश्यामि’ इति निश्चयं कृतवान् ।
यदा सः गृहं गतवान् तदा पत्नी भोजनार्थं सर्वं सिद्धं कृत्वा आहूतवती - “आगच्छतु, भोजनं सिद्धम् अस्ति” इति ।
“मम बुभुक्षा एव नास्ति । अहम् अद्य रात्रौ भोजनं न करोमि । मम कृते उपरोधं मा करोतु” इति उक्तवान् सुदर्शनः ।
सा पुनः - “अस्माकं गृहे एव फलितं कारवेल्लम् आसीत् । तेन अहं व्यञ्जनं कृतवती | भवते बहु रोचते किल ? किञ्चित् वा खादतु” इति उक्तवती ।
“मम कृते भोजनं न आवश्यकम् । बुभुक्षा नास्ति इति उक्तं किल ? ‘वृथा तृप्तस्य भोजनम्’ इति न जानाति वा ? गच्छतु” इति गर्जितवान् । सा गतवती । किन्तु बालकाः भोजनसमये बहु पीडां दत्तवन्तः । ‘गृहे तिष्ठामि चेत् वारयितुं न शक्यते । अतः एव ग्रामात् बहिः गच्छामि’ इति सः चिन्तितवान् । ग्रामतः आगत्य एकस्य वृक्षस्य अधः उपविष्टवान् च ।
तस्मिन् ग्रामे एका पिशाचग्रस्ता आसीत् । मान्त्रिकः आगत्य तस्मिन् दिने रात्रौ पिशाचस्य उच्छाटनं करोति स्म । सः बहूनि भक्ष्यभोज्यानि कारितवान् । “एकस्मिन् घटे स्थापयित्वा, ग्रामात् बहिः स्थितस्य एकस्य वृक्षस्य अधः स्थापयित्वा आगच्छन्तु” इति गृहसदस्यान् उक्तवान् ।
तदा तस्य गृहस्य परिचारकाः तानि भक्ष्याणि नीतवन्तः । सुदर्शनः यत्र आसीत् तत्रैव तानि भक्ष्यभोजनानि स्थापयित्वा गतवन्तः ।
सुदर्शनः तदा वस्तुतः बुभुक्षितः आसीत् । तस्मिन् समये एव भक्ष्याणां सुगन्धः नासिकां प्रविशति स्म । तस्य जिह्वातः लालारसः स्रवति स्म । ‘अद्य देवस्य परीक्षां करोमि एव’ इति चिन्तयित्वा सः बुभुक्षां बलेन निरुध्य उपविष्टवान् ।
एवमेव रात्रिः अग्रे गच्छति स्म । तदा तृतीयः यामः आसीत् । तस्मिन् समये तत्र केचन चोराः आगताः । ते ग्रामेषु चौर्यं कृत्वा धनादिकम् आनीतवन्तः आसन् । इदानीं ‘सम्पादितस्य विभागः करणीयः’ इति तत्र सम्मिलिताः च । तेषां नासिकाम् अपि भक्ष्यादीनां सुगन्धः प्रविष्टः । ते तत्रैव स्थितं भक्ष्यपूर्णं घटं दृष्टवन्तः । ते सर्वे आश्चर्यचकिताः ।
“अरे ! एतावत् भक्ष्यम् अत्र कथम् आगतम् ?” इति केचन उक्तवन्तः ।
“यथा कथं वा आगच्छतु ! इदानीं बुभुक्षा बाधते । भोजनं तु सिद्धम् अस्ति ! खादामः । अन्यत् सर्वम् अनन्तरं परिशीलयामः” इति अन्ये केचन उक्तवन्तः ।
“रे ! रे ! त्वरा मास्तु ! येन केनापि अस्मान् मारयित्वा धनं सर्वं स्वीकर्तुम्, अन्ने विषं मेलयित्वा स्थापितं स्यात् । तथा अस्ति चेत् सः अत्रैव भवति । सम्यक् अन्वेषणं कुर्वन्तु” इति अपरः उक्तवान् ।
चोराः अन्वेषणम् आरब्धवन्तः । समीपे एव वृक्षस्य अधः उपविष्टं सुदर्शनं दृष्टवन्तः । सर्वे तस्य समीपम् आगत्य - “रे ! वराक ! अस्मान् मारयितुं जालं प्रसार्य अत्र अन्धकारे उपविष्टवान् वा ? भवान् एव खादतु तत् भक्ष्यम्” इति उक्तवन्तः ।
“अहं किमपि भक्ष्यं न खादामि । मम व्रतम् अस्ति । अतः एव अत्र उपविष्टवान् ।” इति सुदर्शनः उक्तवान् ।
सुदर्शनस्य वचनं श्रुत्वा तेषां संशयः दृढः जातः । अतः ते - “भवान् किञ्चित् खादतु प्रथमम्” इति बहु आग्रहं कृतवन्तः । सुदर्शनं बहु ताडितवन्तः । तथापि सुदर्शनः भोजनं कर्तुं न सिद्धः । अन्ते ते बलात्कारेण सुदर्शनस्य मुखे भक्ष्यं स्थापितवन्तः ।
‘सुदर्शनः न मृतः’ इति ज्ञात्वा ते सर्वम् अपि भुक्त्वा, ततः गतवन्तः । ‘भक्तशिवदासेन यत् उक्तं तत् सत्यम् एव’ इति चिन्तयन् सुदर्शनः गृहं गतवान् ।