चन्दामामा कथाः - प्रथमा स्तरा
Language
gurukula-audio-image
0.002.12
icon-rewindicon-playicon-forward
icon-volume

 

If there are any errors in the script or the narration, please send a note to sriram@gurukula.com

 

Narrator: Aditi Uttarkar (अदिति उत्तर्कर्)

 

एकस्मिन् ग्रामे आनन्दः नाम महान् पण्डितः आसीत् । तस्य सुधामः नाम तरुणः पुत्रः । किन्तु तस्मिन् ग्रामे कोऽपि तस्मै कन्यां दातुं न सिद्धः । कदाचित् गोविन्दः नाम सहपाठी आनन्दस्य गृहम् आगतवान् । सः स्वपुत्र्याः विवाहार्थं वरान्वेषणं कुर्वन् आसीत् । 

 

बहोः कालात् अनन्तरम् आगतं मित्रं दृष्ट्वा आनन्दस्य बहुसन्तोषः अभवत् । द्वावपि बाल्यदिनानि स्मृत्वा वार्तालापं कृतवन्तौ । 

 

तदा गोविन्दः पुत्र्याः विषयम् उक्त्वा - “भवतः पुत्रः एव मम पुत्र्याः पाणिग्रहणं करोति चेत् समीचीनम् । तथापि सुधामस्य कोऽपि कन्यां न ददाति इति वार्ता श्रुता । तत्र किं कारणम् ? सुधामस्य दुर्व्यसनादिकम् अस्ति वा ?” इति आनन्दं पृष्टवान् । 

 

“भवान् एव केनापि व्याजेन तं पृष्ट्वा आगच्छतु” इति उक्तवान् आनन्दः । 

 

सायङ्काले गोविन्दः सुधामम् एकान्ते पृष्टवान् - “एकः सामान्यः विषयः । अन्यथा मा भावयतु । भवतः यत्किमपि दुर्व्यसनम् अस्ति वा ?”

 

“नैव, दुर्व्यसनं किमपि नास्ति” इति सुधामः उक्तवान् । 

 

गोविन्दः एतं विषयम् आनन्दस्य समीपे उक्तवान् । तदा आनन्दः हसन् - “मम पुत्रस्य एकमेव दुर्व्यसनं यत् असत्यकथनं नाम” इति उक्तवान् ।