If there are any errors in the script or the narration, please send a note to sriram@gurukula.com
Narrator: Aneesha Ashok Bhat (अनीशा अशोक् भट्)
वीरपुरे लक्ष्मीशः नाम कश्चित् धनिकः आसीत् । सः महाकृपणः । यदा कदापि तस्य नामोच्चरणं करणीयं चेत् जनाः ‘महाकृपणः लक्ष्मीशः’ इत्येव वदन्ति स्म ।
एकदा ग्रामीणैः ‘एका धर्मशाला निर्मातव्या’ इति निश्चयः कृतः । एतदर्थं धनसङ्ग्रहकार्यम् आरब्धम् । ‘लक्ष्मीशतः कथं धनं स्वीकरणीयम् ?’ इति ग्रामीणाः चिन्तयन्तः आसन् ।
तस्मिन् ग्रामे कमलानाथः नाम कश्चित् युवकः आसीत् । सः बहुबुद्धिमान् वाग्मी च । कार्यसाधने सः अतीव कुशलः । अतः ग्रामवासिनः तं ‘कार्यसाधकः’ इति आह्वयन्ति स्म ।
एकस्मिन् दिने कमलानाथः मित्रद्वयेन सह लक्ष्मीशस्य गृहं गतवान् । धर्मशालायाः निर्माणविषये उक्त्वा धनं पृष्टवान् ।
तदा लक्ष्मीशः हासं प्रकटयन् उक्तवान् - “किम् उक्तम् ? धनं दातव्यम् इति ? तदपि मया ! अहम् अद्यावधि कस्मै अपि साहाय्यधनं न दत्तवान् । भवतः अपेक्षया बुद्धिमन्तः अपि आगत्य रिक्तहस्तेन एव निर्गताः” इति ।
तदा कमलानाथः मन्दहासपूर्वकम् उक्तवान् - “महोदय ! ते यथा तथा अहं मूर्खः न । सर्वे मां कार्यसाधकनाम्ना आह्वयन्ति । प्रतिवक्ता किञ्चित् बुद्धिमान् विवेकी वा यदि स्यात् तर्हि सः यथा धनं दद्यात् तथा करोमि अहम्” इति ।
पुनश्च किं वक्तव्यम् ? कृपणः विना प्रतिरोधं साहाय्यधनं दत्तवान् ।