If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
केचन मण्डूकाः वने अटन्ति । एकः महाकूपः अस्ति । अटनसमये मण्डूकद्वयं कूपे पतति । अन्ये मण्डूकाः पश्यन्ति । कूपः गभीरः अस्ति । ते वदन्ति, "भोः ! कूपः गभीरः । तस्मिन् पतितं चेत् मरणं तु निश्चितम् । बहिः आगन्तुं नैव शक्यते", इति ।
kecana maṇḍūkāḥ vane aṭanti । ekaḥ mahākūpaḥ asti । aṭanasamaye maṇḍūkadvayaṃ kūpe patati । anye maṇḍūkāḥ paśyanti । kūpaḥ gabhīraḥ asti । te vadanti, "bhoḥ ! kūpaḥ gabhīraḥ । tasmin patitaṃ cet maraṇaṃ tu niścitam । bahiḥ āgantuṃ naiva śakyate", iti ।
मण्डूकद्वयम् उपरिष्टात् सूचितान् उपदेशान् न अनुसरति । कूपतः कूर्दनं कर्तुं प्रयत्नं करोति । अन्ये मण्डूकाः पुनः पुनः वदन्ति, "कूर्दनेन किं वा प्रयोजनम् ? प्रयत्नः मास्तु । मरणं तु निश्चितम्", इति ।
maṇḍūkadvayam upariṣṭāt sūcitān upadeśān na anusarati । kūpataḥ kūrdanaṃ kartuṃ prayatnaṃ karoti । anye maṇḍūkāḥ punaḥ punaḥ vadanti, "kūrdanena kiṃ vā prayojanam ? prayatnaḥ māstu । maraṇaṃ tu niścitam", iti ।
एकः मण्डूकः अन्येषां वाक्यानि श्रुत्वा कूर्दनं स्थगयति । किञ्चित् कालानन्तरं सः मरणं प्राप्नोति । परन्तु अपरः मण्डूकः कूर्दनं कुर्वन् भवति । उपरिष्टात् मण्डूकाः पुनः पुनः उच्चैः वदन्ति, "प्रयत्नं मा करोतु । भवान् अपि निश्चयेन मरणं प्राप्नोति", इति ।
ekaḥ maṇḍūkaḥ anyeṣāṃ vākyāni śrutvā kūrdanaṃ sthagayati । ki"cit kālānantaraṃ saḥ maraṇaṃ prāpnoti । parantu aparaḥ maṇḍūkaḥ kūrdanaṃ kurvan bhavati । upariṣṭāt maṇḍūkāḥ punaḥ punaḥ uccaiḥ vadanti, "prayatnaṃ mā karotu । bhavān api niścayena maraṇaṃ prāpnoti", iti ।
परन्तु एषः मण्डूकः तु इतोऽपि अधिकं प्रयत्नं करोति । अन्तिमे सः उद्यमेन कूर्दति । कूपतः बहिः आगच्छति ।
parantu eṣaḥ maṇḍūkaḥ tu ito'pi adhikaṃ prayatnaṃ karoti । antime saḥ udyamena kūrdati । kūpataḥ bahiḥ āgacchati ।
मण्डूकाः पृच्छन्ति, "अस्माकं वाक्यानि न श्रुतवान् किम् ?"
maṇḍūkāḥ pṛcchanti, "asmākaṃ vākyāni na śrutavān kim ?"
मण्डूकः वदति, "अहं किञ्चित् बधिरः अस्मि । भवतां वाक्यानि सम्यक् श्रोतुं न शक्तवान् । अहं चिन्तितवान् भवन्तः मम उत्साहं वर्धयितुम् एव उच्चैः वदन्ति", इति ।
maṇḍūkaḥ vadati, "ahaṃ
ki"cit badhiraḥ asmi । bhavatāṃ vākyāni samyak
śrotuṃ na śaktavān । ahaṃ cintitavān
bhavantaḥ mama utsāhaṃ vardhayitum eva uccaiḥ
vadanti", iti ।
नीतिः -
अन्येषां निरुत्साह-वचनानि
मा गणयतु ।
nītiḥ - anyeṣāṃ nirutsāha-vacanāni mā gaṇayatu ।