If there are any errors in the script or the narration, please send a note to sriram@gurukula.com
Narrator: Sudarshan (सुदर्शनः)
कश्चन भक्तः मन्दिरं गत्वा ईश्वरस्य समीपे प्रार्थनां करोति । “कृपया मम साहाय्यं करोतु । अहम् अतीव दरिद्रः अस्मि” इति । अनन्तरं गृहं गत्वा शयनं करोति । रात्रौ ईश्वरः स्वप्ने आगत्य - “श्वः भवान् धनिकः भविष्यति” इति वदति । भक्तः प्रातः उत्थाय आशया उपविशति । आदिनं धनस्य कोऽपि सङ्केतः एव नास्ति । अग्रिमदिने पुनः मन्दिरं गत्वा ईश्वरं प्रार्थयति । “अहं धनिकः भवामि इति भवान् उक्तवान्, कृपया श्वः वा साहाय्यं करोतु” इति । पुनः रात्रौ ईश्वरः स्वप्ने आगत्य वदति - “श्वः भवान् ‘लाटरी’-द्वारा अधिकं धनं प्राप्स्यति” इति ।
सः अग्रिमदिने अपि उपविश्य प्रतीक्षां करोति । परन्तु किमपि न सम्भवति । एवं दिनद्वयं अतीतम् ।
तृतीयदिने भक्तस्य क्षमा निर्गता । ईश्वरस्य समीपं गत्वा वदति - “भवान् भक्त-वञ्चकः ! एवमेव वृथा वदति, साहाय्यं न करोति” इति । एवं सः ईश्वरं निन्दित्वा गृहम् आगच्छति ।
रात्रौ ईश्वरः स्वप्ने आगत्य वदति - “श्वः निश्चयेन भवान् ‘लाटरी’-द्वारा धनं प्राप्स्यति एव । परन्तु हे भक्त ! न्यूनातिन्यूनम् आपणं गत्वा ‘लाटरी’-चिटिकां वा क्रीणातु” इति ।
एवं यदि मनसि इच्छा अस्ति परन्तु कार्यं न क्रियते तर्हि साफल्यं न भवति । केवलम् इच्छाशक्तिः ज्ञानशक्तिः इत्येतद्वयं न पर्याप्तम् । क्रियाशक्तिः अपि आवश्यकी ।
उक्तं च -
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥