If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
कश्चन पिता । तस्य चत्वारः पुत्राः । पुत्राणां मध्ये सर्वदा कलहः भवति स्म । पिता कलहनिवारणं कर्तुं प्रयत्नं कृतवान् । बहुधा प्रयत्नं कृत्वा अपि सः तेषु परस्परप्रीतिं कल्पयितुम् अशक्तः अभवत् । तदा पिता एकम् उपायं कृतवान् । बहिर्गत्वा अनेकान् काष्ठान् आनीतवान् । रज्ज्वा तान् बद्धवान् । पुत्रान् आहूतवान् च ।
kaścana pitā । tasya catvāraḥ
putrāḥ । putrāṇāṃ madhye sarvadā
kalahaḥ bhavati sma । pitā kalahanivāraṇaṃ
kartuṃ prayatnaṃ kṛtavān । bahudhā prayatnaṃ
kṛtvā api saḥ teṣu parasparaprītiṃ kalpayitum
aśaktaḥ abhavat । tadā pitā ekam upāyaṃ kṛtavān
। bahirgatvā anekān kāṣṭhān
ānītavān । rajjvā tān baddhavān ।
putrān āhūtavān ca ।
प्रथमपुत्राय
बद्धकाष्ठान्
दत्त्वा एवम् उक्तवान्,
"एतस्य काष्ठबन्धनस्य
भग्नं करोतु", इति
। यद्यपि प्रथमपुत्रः
संपूर्णशक्तिम्
उपयुज्य प्रयत्नं
कृतवान् तथापि
काष्ठबन्धनस्य
भग्नः न जातः ।
द्वितीयः पुत्रः अपि
प्रयत्नं कृतवान्
। सः अपि अशक्तः
। एवमेव तृतीयः
पुत्रः चतुर्थः
च ।
prathamaputrāya baddhakāṣṭhān dattvā evam uktavān, "etasya kāṣṭhabandhanasya bhagnaṃ karotu", iti । yadyapi prathamaputraḥ saṃpūrṇaśaktim upayujya prayatnaṃ kṛtavān tathāpi kāṣṭhabandhanasya bhagnaḥ na jātaḥ । dvitīyaḥ putraḥ api prayatnaṃ kṛtavān । saḥ api aśaktaḥ । evameva tṛtīyaḥ putraḥ caturthaḥ ca ।
तथा पिता तत् काष्ठबन्धनं शिथिलीकृतवान् । एकैकं काष्ठं स्वीकृत्य एकैकस्मै पुत्राय क्रमशः दत्तवान् । काष्ठस्य भग्नं कर्तुं आदिष्टवान् । पुत्राः अल्पेन प्रयत्नेन एव काष्ठानां भग्नं कृतवन्तः ।
tathā pitā tat kāṣṭhabandhanaṃ śithilīkṛtavān । ekaikaṃ kāṣṭhaṃ svīkṛtya ekaikasmai putrāya kramaśaḥ dattavān । kāṣṭhasya bhagnaṃ kartuṃ ādiṣṭavān । putrāḥ alpena prayatnena eva kāṣṭhānāṃ bhagnaṃ kṛtavantaḥ ।
तदा पिता उक्तवान्, "भोः पुत्राः! काष्ठबन्धनम् इव सङ्घटिताः भवन्ति चेत् केऽपि भवद्भ्यः अपकारयितुं न शक्नुवन्ति । सर्वदा भवतां सङ्घः भवतु । सङ्घे एव शक्तिः", इति ।
tadā pitā uktavān, "bhoḥ putrāḥ! kāṣṭhabandhanam iva saṅghaṭitāḥ bhavanti cet ke'pi bhavadbhyaḥ apakārayituṃ na śaknuvanti । sarvadā bhavatāṃ saṅghaḥ bhavatu । saṅghe eva śaktiḥ", iti ।
उक्तं च "
त्रेतायां मन्त्र-शक्तिश्च ज्ञानशक्तिः कृते-युगे ।
द्वापरे युद्ध-शक्तिश्च, सङ्घशक्तिः कलौ युगे ॥
uktaṃ ca "
tretāyāṃ
mantra-śaktiśca j"ānaśaktiḥ kṛte-yuge ।
dvāpare yuddha-śaktiśca, saṅghaśaktiḥ
kalau yuge ॥