तेनालीरामः
Language

 

Translated by Vivaswini. For feedback and questions, send a note to contact@gurukula.com

 

तेनालीरामः इत्यस्य विषये यदा वयं चिन्तयामः तदा बहवः विषयाः मनसि स्फुरन्ति । सः रसिकः, बुद्धिमान्, चतुरः इत्यादयः आसीत् ! तेनालीरामस्य कथा बालान् प्रौढान् च बहु कालात् आकृष्टवती अस्ति । तस्य कथाः अस्मान् स्वजीवने तस्य शिक्षां स्वीकर्तुं प्रेरयन्ति । तेनालीरामस्य मार्गः इति अस्माभिः समस्यानिवारणाय पुस्तकानि अपि लिखितानि वर्तन्ते !

 

तेनालीरामः न केवलं महाराजस्य कृष्णदेवरायस्य निकटतम-उपदेशकेषु अन्यतमः भूतवान्, अपि तु सः पाण्डुरङ्ग-माहात्म्यम् इत्यादीन् अनेकान् ग्रन्थान् अपि रचितवान् । अपि च शैव-गुरोः उद्भटवर्यस्य उपरि “उद्भटाराध्य-चरितमु” इत्यादीनि काव्यानि अपि रचितवान् ।

 

सः महाराजस्य कृष्णदेवरायस्य मृत्युपर्यन्तं राजसभायां परामर्शकः आसीत् । ततः परं सः स्वनगरं तेनाली-नगरं प्रत्यागत्य स्वस्य उत्तरवर्षाणि व्यतीतवान् । त्वं जानासि वा ? तेनालीरामः विजयनगर-साम्राज्यस्य शत्रुपक्षात् रक्षणे, बहुवारं महाराजस्य रक्षणे च महत्त्वपूर्णां भूमिकां निरूढवान् !

 

अथ, वयं तेनालीरामस्य कथां शृणुमः, तस्य अनेकैः साहसैः प्रेरिताः च भवामः !

 

तेनालीरामस्य कथा १५०० तमे दशके आन्ध्रप्रदेशे स्थापिता वर्तते । इदं विजयनगरसाम्राज्यस्य शासककेन्द्रम् आसीत् । इदं साम्राज्यं स्वविद्यावतः पराक्रमिणः च महाराजस्य कृष्णदेवरायस्य शासनकाले स्वशक्तेः धनस्य च कृते प्रसिद्धम् आसीत् । तेनालीरामः अपि अस्य एव साम्राज्यस्य सदस्यः आसीत् ।

 

रामः गर्लाप्पड् इति ग्रामे जन्म प्राप्तवान् । तस्य अत्यल्पवयसि एव तस्य पिता रामय्यः मृतवान् । तदनन्तरं तस्य माता तं तेनाली-नामकं नगरं नीतवती । ततः परं तेनाली-नगरस्य रामः तेनाली-रामः इति नाम्ना प्रसिद्धः अभवत् । तेनालीरामः शिक्षां समाप्य शीघ्रमेव स्वनगरं प्रत्यागन्तुं मार्गम् अन्विष्टवान् । तेनालीरामः अतीव बुद्धिमान् चतुरः च आसीत् । परन्तु सः अलसः अपि आसीत्, कार्यं कर्तुं निराकृतवान् च । एतावत् अलसः आसीत् येन सः अनाहारेणापि पीडितः । तथापि, अनेकेषु अवसरेषु, सः स्वसमीपवासिनां परिहासस्य, तेषाम्  अयौक्तिकविश्वासानाम् उपहासावसरं च कदापि न त्यक्तवान् ।

 

एकदा, पूर्वम् उर्वरा भूमियुक्तं तेनाली-नगरम्, अनावृष्ट्या पीडितम् आसीत् । सस्यानि म्रियन्ते स्म । कूपाः तडागाः च निर्जलाः अभवन् । क्षुधा दुर्भिक्षा च प्रबला आसीत् । अनेन बहवः ग्रामीणाः स्वगृहं परित्यज्य गतवन्तः ।

 

अस्मिन् एव काले कश्चन साधुः तेनाली-नगरम् आगतवान् । यदा सः ग्रामं प्रविष्टः, तदा प्रचण्डवृष्टिः आरब्धा । ग्रामजनाः वृष्टिं दृष्ट्वा उल्लसिताः अभवन् । साधोः उपस्थित्या एव अयं चमत्कारः अभवत् इति ते मतवन्तः । ते साधुं साक्षात् देवं मतवन्तः । परन्तु तेनालीरामः शङ्कितः आसीत् । केवलं साधोः उपस्थितिः एव वृष्टिं जनयितुं शक्नोति इति तस्य तार्किकमनः विश्वसितुं न अशक्नोत् ।

 

सः ग्रामजनैः सह तर्कितवान् । एतत् सत्यं भवितुं न अर्हति, ते एतादृशेषु अन्धविश्वासेषु विश्वसन्तः मूढाः सन्ति इति । परन्तु ग्रामजनाः तं निश्शब्दं कृत्वा तस्य मतस्य अवहेलनं कृतवन्तः । अतः, तेनालीरामः तं प्रष्टुम् उत्सुकः सन् साधुं प्रति गतवान् ।

 

सः उक्तवान्, “नमस्ते स्वामी ! मम कश्चन संशयः वर्तते । कश्चन तालवृक्षः आसीत् । एकः क्लान्तः काकः किञ्चित्कालं विश्रान्तुम्  इच्छन्, वृक्षस्य उपरि उपविष्टवान् । यदा सः उपविष्टः, तदा खर्जूरवृक्षात् एकं फलं पतितम् । ये जनाः इमां घटनाम् दृष्टवन्तः ते मतवन्तः यत् काकः एव फलस्य पतनं कारितान् इति । परन्तु तत् सत्यं नास्ति किल ? इदं केवलम् अन्धविश्वासः खलु ?”

 

तेनालीरामस्य प्रश्नस्य उत्तरं साधुः झटिति न दत्तवान् । यदा सर्वे निर्गतवन्तः, तदा सः तेनालीरामम् आहूय उक्तवान्, “भवतः प्रश्नेन अहं प्रभावितः । अहं भवन्तं कालीदेवीं उपासितुं कतिपयान् मन्त्रान् शिक्षयामि । यदि भवान् प्रतिदिनं तेषां जपं करोति तर्हि सा भवन्तम् आशीर्वदति तथा च प्रसिद्धः भवितुं वरं ददाति । भवतः बुद्धिः ज्ञानं च आगामिवंशजैः चर्चिताः, प्रशंसिताः च भविष्यन्ति ।”

 

एवं कथयन्, साधुः तेनालीरामम् अनुगृह्य ततः निर्गतवान् ।

 

यद्यपि वयं सर्वे तार्किक-मनयुक्ताः तथापि समाजेन विश्वसितानाम् अन्धविश्वासानां सम्मुखीकरणे प्रायः तेषाम् उपेक्षां करिष्यामः । अन्धविश्वासानां शिष्टप्रश्नावलिः न केवलं समाजं विमर्शात्मकरूपेण चिन्तयितुं प्रोत्साहयति । अन्ये तु विना चिन्तनेन विश्वसितवन्तः, तेनालीरामः तु न्यायं तर्कितवान् । तेन सः साधोः सम्मानम् आप्तवान्, उत्तमभविष्यं च प्राप्तवान् ।