कदाचित् रात्रौ, प्रासादे सुप्ताः राजपत्न्यः दिव्यस्वरं श्रुतवत्यः, "ब्राह्मणस्य वधः महत् पापाय भवति । तेनालीरामः एकः ब्राह्मणः आसीत्, महाराजः तं हतवान् । एतादृशेन कार्येण राज्ये नकारात्मकः प्रभावः भविष्यति" इति ।
प्रातःकाले राजपत्न्यः इमां घटनां महाराजाय कृष्णदेवरायाय निवेदितवत्यः । महाराजः स्वराज्यस्य कल्याणाय चिन्तितः अभवत् । तत्क्षणमेव स्वमन्त्रिभिः सह मिलित्वा तेनालीरामस्य आत्मनः स्वर्गप्रेषणाय आवश्यकाः धार्मिकविधयः आचरितुं निश्चितवान् ।
"
सा अमावास्यरात्रिः आसीत् । प्रधानपुरोहितस्य नेतृत्वे अष्टाधिकशतपुरोहिताः (१०८) समीपस्थं मन्दिरं गतवन्तः । ते मन्दिरस्य समीपे वटवृक्षस्य अधः संस्कारं कर्तुं निश्चितवन्तः ।
तेनालीरामः अस्य कार्यक्रमस्य विषये ज्ञातवान् ।
सः स्वस्य वदनं सम्पूर्णं शरीरं च कृष्णवर्णेन लिप्त्वा गूढतया वटवृक्षस्य उपरि आरूढवान् । तत्र पुरोहितानां आगमनं प्रतीक्षितवान् ।
शुभमुहूर्ते, पुरोहिताः वटवृक्षं प्रति आगतवन्तः । ते वृक्षस्य अधः उपविश्य मन्त्रान् उच्चारितवन्तः । तेनालीरामस्य आत्मानम् आह्वातुं यदा मन्त्रान् उच्चारितवन्तः तदा सः वटवृक्षात् प्लुतवान् । पुरोहिताः स्तब्धाः अभवन्! सर्वे भीताः इतस्ततः धावितवन्तः ।
अग्रिमदिने, ते पूर्वरात्रौ घटितां घटनां महाराजाय कृष्णदेवरायाय कथितवन्तः, "हे राजन्, वयं तेनालीरामस्य भूतं दृष्टवन्तः । सः कृष्णवर्णः भयानकः च आसीत् । सः अस्मान् आक्रान्तवान् । वयं तु यथाशक्यं तत्रतः पलायितवन्तः" इति ।
शीघ्रम् एव तेनालीरामस्य भूतस्य वार्ता सम्पूर्णे देशे प्रसृता । सर्वे सुरक्षिताः स्वगृहे एव स्थितवन्तः ।
महाराजेन कृष्णदेवरायेन शीघ्रं किमपि कर्तव्यम् आसीत् । सः एकम् उपायं चिन्तितवान् । सः सन्देशवाहकान् सम्पूर्णे देशे सन्देशम् एकं प्रसारयितुम् आदिष्टवान् । "यः कोSपि तेनालीरामस्य अन्तिमसंस्कारान् समापयितुम् उद्युक्तः, सः एकसहस्रस्वर्णमुद्राभिः (१०००) पुरस्कृतः भविष्यति" इति ।
सन्देशः राज्ये सर्वैः श्रुतः । तेनालीरामः अपि अस्य विषये ज्ञातवान् । इदं श्रुत्वा सर्वं तस्य उपायानुगुणं प्रचलति इति सः प्रसन्नः अभवत् ।