Download the Gurukula App now!
Home
Courses
Workshops
Subscribe Now
About Us
Sign in with Google
Home
Courses
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
60 Chapters
1. सर्गः १ - श्लोकः १
0 Likes
Share
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
Audio
Story
Video
Comic
2. सर्गः १ - श्लोकः २
0 Likes
Share
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥
Audio
Story
Video
Comic
3. सर्गः १ - श्लोकः ३
0 Likes
Share
मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥
Audio
Story
Video
Comic
4. सर्गः १ - श्लोकः ४
0 Likes
Share
अथवा कृतवाग्द्वारे वंशेऽस्मिन् पुर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥
Audio
Story
Video
Comic
5. सर्गः १ - श्लोकः ५
0 Likes
Share
सोऽहमाजन्मशुद्धानाम् आफलोदयकर्मणाम् । आसमुद्रक्षितीशानाम् आनाकरथवर्त्मनाम् ॥
Audio
Story
Video
Comic
6. सर्गः १ - श्लोकः ६
0 Likes
Share
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥
Audio
Story
Video
Comic
7. सर्गः १ - श्लोकः ७
0 Likes
Share
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥
Audio
Story
Video
Comic
8. सर्गः १ - श्लोकः ८
0 Likes
Share
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥
Audio
Story
Video
Comic
9. सर्गः १ - श्लोकः ९
0 Likes
Share
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥
Audio
Story
Video
Comic
10. सर्गः १ - श्लोकः १०
0 Likes
Share
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥
Audio
Story
Video
Comic
11. सर्गः १ - श्लोकः ११
0 Likes
Share
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् । आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥
Audio
Story
Video
Comic
12. सर्गः १ - श्लोकः १२
0 Likes
Share
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुः इन्दुः क्षीरनिधाविव ॥
Audio
Story
Video
Comic
13. सर्गः १ - श्लोकः १३
0 Likes
Share
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥
Audio
Story
Video
Comic
14. सर्गः १ - श्लोकः १४
0 Likes
Share
सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥
Audio
Story
Video
Comic
15. सर्गः १ - श्लोकः १५
0 Likes
Share
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥
Audio
Story
Video
Comic
16. सर्गः १ - श्लोकः १६
0 Likes
Share
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥
Audio
Story
Video
Comic
17. सर्गः १ - श्लोकः १७
0 Likes
Share
रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥
Audio
Story
Video
Comic
18. सर्गः १ - श्लोकः १८
0 Likes
Share
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुम् आदत्ते हि रसं रविः ॥
Audio
Story
Video
Comic
19. सर्गः १ - श्लोकः १९
0 Likes
Share
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्त्रेष्वकुण्ठिता बुद्धिः मौर्वी धनुषि चातता ॥
Audio
Story
Video
Comic
20. सर्गः १ - श्लोकः २०
0 Likes
Share
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥
Audio
Story
Video
Comic
21. सर्गः १ - श्लोकः २१
0 Likes
Share
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददे सोऽर्थम् असक्तः सुखमन्वभूत् ॥
Audio
Story
Video
Comic
22. सर्गः १ - श्लोकः २२
0 Likes
Share
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव ॥
Audio
Story
Video
Comic
23. सर्गः १ - श्लोकः २३
0 Likes
Share
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥
Audio
Story
Video
Comic
24. सर्गः १ - श्लोकः २४
0 Likes
Share
प्रजानां विनयाधानाद् रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥
Audio
Story
Video
Comic
25. सर्गः १ - श्लोकः २५
0 Likes
Share
स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥
Audio
Story
Video
Comic
26. सर्गः १ - श्लोकः २६
0 Likes
Share
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥
Audio
Story
Video
Comic
27. सर्गः १ - श्लोकः २७
0 Likes
Share
न किलानुययुस्तस्य राजानो रक्षितुर्यशः । व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥
Audio
Story
Video
Comic
28. सर्गः १ - श्लोकः २८
0 Likes
Share
द्वेष्योऽपि संमतः शिष्टः तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीद् अङ्गुलीवोरगक्षता ॥
Audio
Story
Video
Comic
29. सर्गः १ - श्लोकः २९
0 Likes
Share
तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन् परार्थैकफला गुणाः ॥
Audio
Story
Video
Comic
30. सर्गः १ - श्लोकः ३०
0 Likes
Share
स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥
Audio
Story
Video
Comic
31. सर्गः १ - श्लोकः ३१
0 Likes
Share
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्यासीद् अध्वरस्येव दक्षिणा ॥
Audio
Story
Video
Comic
32. सर्गः १ - श्लोकः ३२
0 Likes
Share
कलत्रवन्तमात्मानम् अवरोधे महत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥
Audio
Story
Video
Comic
33. सर्गः १ - श्लोकः ३३
0 Likes
Share
तस्यामात्मानुरूपायाम् आत्मजन्मसमुत्सुकः । विलम्बितफलैः कालम् स निनाय मनोरथैः ॥
Audio
Story
Video
Comic
34. सर्गः १ - श्लोकः ३४
0 Likes
Share
सन्तानार्थाय विधये स्वभुजादवतारिता । तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥
Audio
Story
Video
Comic
35. सर्गः १ - श्लोकः ३५
0 Likes
Share
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥
Audio
Story
Video
Comic
36. सर्गः १ - श्लोकः ३६
0 Likes
Share
स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनमास्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥
Audio
Story
Video
Comic
37. सर्गः १ - श्लोकः ३७
0 Likes
Share
मा भूदाश्रमपीडेति परिमेयपुरःसरौ । अनुभावविशेषात्तु सेनापरिवृताविव ॥
Audio
Story
Video
Comic
38. सर्गः १ - श्लोकः ३८
0 Likes
Share
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ॥
Audio
Story
Video
Comic
39. सर्गः १ - श्लोकः ३९
0 Likes
Share
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥
Audio
Story
Video
Comic
40. सर्गः १ - श्लोकः ४०
0 Likes
Share
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥
Audio
Story
Video
Comic
41. सर्गः १ - श्लोकः ४१
0 Likes
Share
श्रेणीबन्धाद्वितन्वद्भिः अस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ॥
Audio
Story
Video
Comic
42. सर्गः १ - श्लोकः ४२
0 Likes
Share
पवनस्यानुकूलत्वात् प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोत्कीर्णैः अस्पृष्टालकवेष्टनौ ॥
Audio
Story
Video
Comic
43. सर्गः १ - श्लोकः ४३
0 Likes
Share
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥
Audio
Story
Video
Comic
44. सर्गः १ - श्लोकः ४४
0 Likes
Share
ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्तौ अर्घ्यानुपदमाशिषः ॥
Audio
Story
Video
Comic
45. सर्गः १ - श्लोकः ४५
0 Likes
Share
हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥
Audio
Story
Video
Comic
46. सर्गः १ - श्लोकः ४६
0 Likes
Share
काप्यभिख्या तयोरासीद् व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥
Audio
Story
Video
Comic
47. सर्गः १ - श्लोकः ४७
0 Likes
Share
तत्तद्भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः । पि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥
Audio
Story
Video
Comic
48. सर्गः १ - श्लोकः ४८
0 Likes
Share
स दुष्प्रापयशाः प्रापद् आश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥
Audio
Story
Video
Comic
49. सर्गः १ - श्लोकः ४९
0 Likes
Share
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः । पूर्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः ॥
Audio
Story
Video
Comic
50. सर्गः १ - श्लोकः ५०
0 Likes
Share
आकीर्णमृषिपत्नीनाम् उटजद्वाररोधिभिः । अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥
Audio
Story
Video
Comic
51. सर्गः १ - श्लोकः ५१
0 Likes
Share
सेकान्ते मुनिकन्याभिः तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहङ्गानाम् आलवालाम्बुपायिनाम् ॥
Audio
Story
Video
Comic
52. सर्गः १ - श्लोकः ५२
0 Likes
Share
आतपात्ययसंक्षिप्तनीवारासु निषादिभिः । मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥
Audio
Story
Video
Comic
53. सर्गः १ - श्लोकः ५३
0 Likes
Share
अभ्युत्थिताग्निपिशुनैः अतिथीनाश्रमोन्मुखान् । पुनानं पवनोद्धूतैः धूमैराहुतिगन्धिभिः ॥
Audio
Story
Video
Comic
54. सर्गः १ - श्लोकः ५४
0 Likes
Share
अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः । तामवारोहयत्पत्नीं रथादवततार च ॥
Audio
Story
Video
Comic
55. सर्गः १ - श्लोकः ५५
0 Likes
Share
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥
Audio
Story
Video
Comic
56. सर्गः १ - श्लोकः ५६
0 Likes
Share
विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥
Audio
Story
Video
Comic
57. सर्गः १ - श्लोकः ५७
0 Likes
Share
तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥
Audio
Story
Video
Comic
58. सर्गः १ - श्लोकः ५८
0 Likes
Share
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥
Audio
Story
Video
Comic
59. सर्गः १ - श्लोकः ५९
0 Likes
Share
अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः । अर्थ्यामर्थपतिर्वाचम् आददे वदतां वरः ॥
Audio
Story
Video
Comic
60. सर्गः १ - श्लोकः ६०
0 Likes
Share
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥
Audio
Story
Video
Comic